|
|
 |
 |
|
|
१ आदिपर्व.jpg)
॥ श्रीः ॥
1.56. अध्यायः 056
Mahabharata - Adi Parva - Chapter Topics
प्रशंसया तुष्टस्य जनमेजयस्य ऋत्विग्भिः संवादः॥ 1 ॥
ऋत्विगाह्वानेन सतक्षकस्येन्द्रस्यागमनम्॥ 2 ॥
भयेनेन्द्रे पलायितेऽग्निसमीपे तक्षकागमनम्॥ 3 ॥
आस्तीकस्य यज्ञसमाप्तिवरयाचनम्॥ 4 ॥
Mahabharata - Adi Parva - Chapter Text
जनमेजय उवाच। 1-56-0x(267)(2260)
बालोऽप्ययं स्थविर इवावभाषते
नायं बालः स्थविरोऽयं मतो मे।
इच्छाम्यहं वरमस्मै प्रदातुं
तन्मे विप्राः संविदध्वं यथावत्॥ 1-56-1(2261)
सदस्या ऊचुः। 1-56-2x(268)
बालोऽपि विप्रो मान्य एवेह राज्ञा
`यश्चाविद्वान्यश्च विद्वान्यथावत्।
प्रसादयैनं त्वरितो नरेन्द्र
द्विजातिवर्यं सकलार्थसिद्धये।'
सर्वान्कामांस्त्वत्त एवार्हतेऽद्य
यथा च नस्तक्षक एति शीघ्रम्॥ 1-56-2(2262)
सौतिरुवाच। 1-56-3x(269)
व्याहर्तुकामे वरदे नृपे द्विजं
वरं वृणीष्वेति ततोऽब्युवाच।
होता वाक्यं नातिहृष्टान्तरात्मा
कर्मण्यस्मिंस्तक्षको नैति तावत्॥ 1-56-3(2263)
जनमेजय उवाच। 1-56-4x(270)
यथा चेदं कर्म समाप्यते मे
यथा च वै तक्षक एति शीघ्रम्।
तथा भवन्तः प्रयतन्तु सर्वे
परं शक्त्या स हि मे विद्विषाणः॥ 1-56-4(2264)
ऋत्विज ऊचुः। 1-56-5x(271)
यथा शस्त्राणि नः प्राहुर्यथा शंसति पावकः।
इन्द्रस्य भवने राजंस्तक्षको भयपीडितः॥ 1-56-5(2265)
यथा सूतो लोहिताक्षो महात्मा
पौराणिको वेदितवान्पुरस्तात्।
स राजानं प्राह पृष्टस्तदानीं
यथाहुर्विप्रास्तद्वदेतन्नृदेव॥ 1-56-6(2266)
पुराणमागम्य ततो ब्रवीम्यहं
दत्तं तस्मै वरमिन्द्रेण राजन्।
वसेह त्वं मत्सकाशे सुगुप्तो
न पावकस्त्वां प्रदहिष्यतीति॥ 1-56-7(2267)
एतच्छ्रुत्वा दीक्षितस्तप्यमान
आस्ते होतारं चोदयन्कर्म काले।
`इन्द्रेण सार्धं तक्षकं पातयध्वं
विभावसौ न विमुच्येत नागः।'
होता च यत्तोऽस्याजुहावाथ मन्त्रै-
रथो महेन्द्रः स्वयमाजगाम॥ 1-56-8(2268)
`आयातु चेन्द्रोऽपि सतक्षकः पते-
द्विभावसौ नागराजेन तूर्णम्।
जम्भस्य हन्तेति जुहाव होता
तदा जगामाहिदत्ताभयः प्रभुः॥' 1-56-9(2269)
विमानमारुह्य महानुभावः
सर्वैर्देवैः परिसंस्तूयमानः।
बलाहकैश्चाप्यनुगम्यमानो
विद्याधरैरप्सरसां गणैश्च
`नागस्य नाशो मम चैव नाशो
भविष्यतीत्येव विचिन्तयानः॥' 1-56-10(2270)
तस्योत्तरीये निहितः स नागो
भयोद्विग्नः शर्म नैवाभ्यगच्छत्।
ततो राजा मन्त्रविदोऽब्रवीत्पुनः
क्रुद्धो वाक्यं तक्षकस्यान्तमिच्छन्॥ 1-56-11(2271)
जनमेजय उवाच। 1-56-12x(272)
इन्द्रस्य भवने विप्रा यदि नागः स तक्षकः।
तमिन्द्रेणैव सहितं पातयध्यं विभावसौ॥ 1-56-12(2272)
सौतिरुवाच। 1-56-13x(273)
जनमेजयेन राज्ञा तु नोदितस्तक्षकं प्रति।
होता जुहाव तत्रस्थं तक्षकं पन्नगं तथा॥ 1-56-13(2273)
हूयमाने तथा चैव तक्षकः सपुरन्दरः।
आकाशे ददृशे तत्र क्षणेन व्यथितस्तदा॥ 1-56-14(2274)
पुरन्दरस्तु तं यज्ञं दृष्ट्वोरुभयमाविशत्।
हित्वा तु तक्षकं त्रस्तः स्वमेव भवनं ययौ॥ 1-56-15(2275)
इन्द्रे गते तु राजेन्द्र तक्षको भयमोहितः।
मन्त्रशक्त्या पावकार्चिस्समीपमवशो गतः।
`तं दृष्ट्वा ऋत्विजस्तत्र वचनं चेदमब्रुवन्'॥ 1-56-16(2276)
ऋत्विज ऊचुः। 1-56-17x(274)
अयमायाति तूर्णं स तक्षकस्ते वशं नृप।
श्रूयतेऽस्य महान्नादो नदतो भैरवं रवम्॥ 1-56-17(2277)
नूनं मुक्तो वज्रभृता स नागो
भ्रष्टो नाकान्मन्त्रवित्रस्तकायः।
घूर्णन्नाकाशे नष्टसंज्ञोऽभ्युपैति
तीव्रान्निश्वासान्निश्वसन्पन्नगेन्द्रः॥ 1-56-18(2278)
वर्तते तव राजेन्द्र कर्मैतद्विधिवत्प्रभो।
अस्मै तु द्विजमुख्याय वरं त्वं दातुमर्हसि॥ 1-56-19(2279)
जनमेजय उवाच। 1-56-20x(275)
बालाभिरूपस्य तवाप्रमेय
वरं प्रयच्छामि यथानुरूपम्।
वृणीष्व यत्तेऽभिमतं हृदि स्थितं
तत्ते प्रदास्याम्यपि चेददेयम्॥ 1-56-20(2280)
सौतिरुवाच। 1-56-21x(276)
पतिष्यमाणे नागेन्द्रे तक्षके जातवेदसि।
इदमन्तरमित्येवं तदास्तीकोऽभ्यचोदयत्॥ 1-56-21(2281)
आस्तीक उवाच। 1-56-22x(277)
वरं ददासि चेन्मह्यं वृणोमि जनमेजय।
सत्रं ते विरमत्वेतन्न पतेयुरिहोरगाः॥ 1-56-22(2282)
एवमुक्तस्तदा तेन ब्रह्मन्पारिक्षितस्तु सः।
नातिहृष्टमनाश्चेदमास्तीकं वाक्यमब्रवीत्॥ 1-56-23(2283)
सुवर्णं रजतं गाश्च यच्चान्यन्मन्यसे विभो।
तत्ते दद्यां वरं विप्र न निवर्तेत्क्रतुर्मम॥ 1-56-24(2284)
आस्तीक उवाच। 1-56-25x(278)
सुवर्णं रजतं गाश्च न त्वां राजन्वृणोम्यहम्।
सत्रं ते विरमत्वेतत्स्वस्ति मातृकुलस्य नः॥ 1-56-25(2285)
सौतिरुवाच। 1-56-26x(279)
आस्तीकेनैवमुक्तस्तु राजा पारिक्षितस्तदा।
पुनःपुनरुवाचेदमास्तीकं वदतां वरः॥ 1-56-26(2286)
अन्यं वरय भद्रं ते वरं द्विज्वरोत्तम।
अयाचत न चाप्यन्यं वरं स भृगुनन्दन॥ 1-56-27(2287)
ततो वेदविदस्तात सदस्याः सर्व एव तम्।
राजानमूचुः सहिता लभतां ब्राह्मणो वरम्॥ ॥ 1-56-28(2288)
इति श्रीमन्महाभारते आदिपर्वणि आस्तीकपर्वणि षट्पञ्चाशत्तमोऽध्यायः॥ 56 ॥
Mahabharata - Adi Parva - Chapter Footnotes
1-56-1 संविदध्वमैकमत्यं कुरुध्वम्। संवदध्वमित्यपि पाठः॥ 1-56-4 विद्विषाणः विद्वेषं कृतवान्। लिटः कान्च। अभ्यासलोप आर्षः॥ 1-56-5 शस्त्राणि शंसनमन्त्रदेवताः॥ 1-56-7 पुराणं पूर्वकल्पीयवृत्तान्तम्। आगम्य ज्ञात्वा॥ 1-56-15 भयं आविशत् प्राप्तवान्॥ 1-56-20 हे बाल॥ षट्पञ्चाशत्तमोऽध्यायः॥ 56 ॥

|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|