(1) मरीचि के पुत्र कश्यप प्रजापति थे। ब्रह्मदेव की दाहिनी हाथ की बोटे की नली से दक्ष नाम का पुरुष और बाएँ हाथ की बोटे की नली से धरनी नाम की स्त्री जन्मीं। उन दोनों से एक हज़ार-हज़ार महा ऋषि जन्मे। (2) ब्रह्मा के मानस पुत्रों में दूसरे स्थान पर रहने वाले अंगिरस्‍ु को उद्दध्य, बृहस्पति और संवर्त जैसे पुत्र हुए। बृहस्पति देवताओं के आचार्य बने। (3) मैत्रि (अत्रि) नामक मानस पुत्र से अनेक महा मुनि जन्मे। (4) पुलस्त्य नामक ब्रह्मा के मानस पुत्र से राक्षसों का जन्म हुआ। (5) पुलह नामक मानस पुत्र से किन्नर और किमपुरुष वर्ग उत्पन्न हुए। (6) क्रतू नामक मानस पुत्र से पक्षियों की जाति उत्पन्न हुई।

   
    

Aadiparv (Mahabharat) - आदिपर्व (महाभारत)


॥ श्रीः ॥
1.56. अध्यायः 056
Mahabharata - Adi Parva - Chapter Topics
प्रशंसया तुष्टस्य जनमेजयस्य ऋत्विग्भिः संवादः॥ 1 ॥
ऋत्विगाह्वानेन सतक्षकस्येन्द्रस्यागमनम्॥ 2 ॥
भयेनेन्द्रे पलायितेऽग्निसमीपे तक्षकागमनम्॥ 3 ॥
आस्तीकस्य यज्ञसमाप्तिवरयाचनम्॥ 4 ॥
Mahabharata - Adi Parva - Chapter Text

जनमेजय उवाच। 1-56-0x(267)(2260)
बालोऽप्ययं स्थविर इवावभाषते
नायं बालः स्थविरोऽयं मतो मे।
इच्छाम्यहं वरमस्मै प्रदातुं
तन्मे विप्राः संविदध्वं यथावत्॥ 1-56-1(2261)
सदस्या ऊचुः। 1-56-2x(268)
बालोऽपि विप्रो मान्य एवेह राज्ञा
`यश्चाविद्वान्यश्च विद्वान्यथावत्।
प्रसादयैनं त्वरितो नरेन्द्र
द्विजातिवर्यं सकलार्थसिद्धये।'
सर्वान्कामांस्त्वत्त एवार्हतेऽद्य
यथा च नस्तक्षक एति शीघ्रम्॥ 1-56-2(2262)
सौतिरुवाच। 1-56-3x(269)
व्याहर्तुकामे वरदे नृपे द्विजं
वरं वृणीष्वेति ततोऽब्युवाच।
होता वाक्यं नातिहृष्टान्तरात्मा
कर्मण्यस्मिंस्तक्षको नैति तावत्॥ 1-56-3(2263)
जनमेजय उवाच। 1-56-4x(270)
यथा चेदं कर्म समाप्यते मे
यथा च वै तक्षक एति शीघ्रम्।
तथा भवन्तः प्रयतन्तु सर्वे
परं शक्त्या स हि मे विद्विषाणः॥ 1-56-4(2264)
ऋत्विज ऊचुः। 1-56-5x(271)
यथा शस्त्राणि नः प्राहुर्यथा शंसति पावकः।
इन्द्रस्य भवने राजंस्तक्षको भयपीडितः॥ 1-56-5(2265)
यथा सूतो लोहिताक्षो महात्मा
पौराणिको वेदितवान्पुरस्तात्।
स राजानं प्राह पृष्टस्तदानीं
यथाहुर्विप्रास्तद्वदेतन्नृदेव॥ 1-56-6(2266)
पुराणमागम्य ततो ब्रवीम्यहं
दत्तं तस्मै वरमिन्द्रेण राजन्।
वसेह त्वं मत्सकाशे सुगुप्तो
न पावकस्त्वां प्रदहिष्यतीति॥ 1-56-7(2267)
एतच्छ्रुत्वा दीक्षितस्तप्यमान
आस्ते होतारं चोदयन्कर्म काले।
`इन्द्रेण सार्धं तक्षकं पातयध्वं
विभावसौ न विमुच्येत नागः।'
होता च यत्तोऽस्याजुहावाथ मन्त्रै-
रथो महेन्द्रः स्वयमाजगाम॥ 1-56-8(2268)
`आयातु चेन्द्रोऽपि सतक्षकः पते-
द्विभावसौ नागराजेन तूर्णम्।
जम्भस्य हन्तेति जुहाव होता
तदा जगामाहिदत्ताभयः प्रभुः॥' 1-56-9(2269)
विमानमारुह्य महानुभावः
सर्वैर्देवैः परिसंस्तूयमानः।
बलाहकैश्चाप्यनुगम्यमानो
विद्याधरैरप्सरसां गणैश्च
`नागस्य नाशो मम चैव नाशो
भविष्यतीत्येव विचिन्तयानः॥' 1-56-10(2270)
तस्योत्तरीये निहितः स नागो
भयोद्विग्नः शर्म नैवाभ्यगच्छत्।
ततो राजा मन्त्रविदोऽब्रवीत्पुनः
क्रुद्धो वाक्यं तक्षकस्यान्तमिच्छन्॥ 1-56-11(2271)
जनमेजय उवाच। 1-56-12x(272)
इन्द्रस्य भवने विप्रा यदि नागः स तक्षकः।
तमिन्द्रेणैव सहितं पातयध्यं विभावसौ॥ 1-56-12(2272)
सौतिरुवाच। 1-56-13x(273)
जनमेजयेन राज्ञा तु नोदितस्तक्षकं प्रति।
होता जुहाव तत्रस्थं तक्षकं पन्नगं तथा॥ 1-56-13(2273)
हूयमाने तथा चैव तक्षकः सपुरन्दरः।
आकाशे ददृशे तत्र क्षणेन व्यथितस्तदा॥ 1-56-14(2274)
पुरन्दरस्तु तं यज्ञं दृष्ट्वोरुभयमाविशत्।
हित्वा तु तक्षकं त्रस्तः स्वमेव भवनं ययौ॥ 1-56-15(2275)
इन्द्रे गते तु राजेन्द्र तक्षको भयमोहितः।
मन्त्रशक्त्या पावकार्चिस्समीपमवशो गतः।
`तं दृष्ट्वा ऋत्विजस्तत्र वचनं चेदमब्रुवन्'॥ 1-56-16(2276)
ऋत्विज ऊचुः। 1-56-17x(274)
अयमायाति तूर्णं स तक्षकस्ते वशं नृप।
श्रूयतेऽस्य महान्नादो नदतो भैरवं रवम्॥ 1-56-17(2277)
नूनं मुक्तो वज्रभृता स नागो
भ्रष्टो नाकान्मन्त्रवित्रस्तकायः।
घूर्णन्नाकाशे नष्टसंज्ञोऽभ्युपैति
तीव्रान्निश्वासान्निश्वसन्पन्नगेन्द्रः॥ 1-56-18(2278)
वर्तते तव राजेन्द्र कर्मैतद्विधिवत्प्रभो।
अस्मै तु द्विजमुख्याय वरं त्वं दातुमर्हसि॥ 1-56-19(2279)
जनमेजय उवाच। 1-56-20x(275)
बालाभिरूपस्य तवाप्रमेय
वरं प्रयच्छामि यथानुरूपम्।
वृणीष्व यत्तेऽभिमतं हृदि स्थितं
तत्ते प्रदास्याम्यपि चेददेयम्॥ 1-56-20(2280)
सौतिरुवाच। 1-56-21x(276)
पतिष्यमाणे नागेन्द्रे तक्षके जातवेदसि।
इदमन्तरमित्येवं तदास्तीकोऽभ्यचोदयत्॥ 1-56-21(2281)
आस्तीक उवाच। 1-56-22x(277)
वरं ददासि चेन्मह्यं वृणोमि जनमेजय।
सत्रं ते विरमत्वेतन्न पतेयुरिहोरगाः॥ 1-56-22(2282)
एवमुक्तस्तदा तेन ब्रह्मन्पारिक्षितस्तु सः।
नातिहृष्टमनाश्चेदमास्तीकं वाक्यमब्रवीत्॥ 1-56-23(2283)
सुवर्णं रजतं गाश्च यच्चान्यन्मन्यसे विभो।
तत्ते दद्यां वरं विप्र न निवर्तेत्क्रतुर्मम॥ 1-56-24(2284)
आस्तीक उवाच। 1-56-25x(278)
सुवर्णं रजतं गाश्च न त्वां राजन्वृणोम्यहम्।
सत्रं ते विरमत्वेतत्स्वस्ति मातृकुलस्य नः॥ 1-56-25(2285)
सौतिरुवाच। 1-56-26x(279)
आस्तीकेनैवमुक्तस्तु राजा पारिक्षितस्तदा।
पुनःपुनरुवाचेदमास्तीकं वदतां वरः॥ 1-56-26(2286)
अन्यं वरय भद्रं ते वरं द्विज्वरोत्तम।
अयाचत न चाप्यन्यं वरं स भृगुनन्दन॥ 1-56-27(2287)
ततो वेदविदस्तात सदस्याः सर्व एव तम्।
राजानमूचुः सहिता लभतां ब्राह्मणो वरम्॥ ॥ 1-56-28(2288)

इति श्रीमन्महाभारते आदिपर्वणि आस्तीकपर्वणि षट्पञ्चाशत्तमोऽध्यायः॥ 56 ॥

Mahabharata - Adi Parva - Chapter Footnotes
1-56-1 संविदध्वमैकमत्यं कुरुध्वम्। संवदध्वमित्यपि पाठः॥ 1-56-4 विद्विषाणः विद्वेषं कृतवान्। लिटः कान्च। अभ्यासलोप आर्षः॥ 1-56-5 शस्त्राणि शंसनमन्त्रदेवताः॥ 1-56-7 पुराणं पूर्वकल्पीयवृत्तान्तम्। आगम्य ज्ञात्वा॥ 1-56-15 भयं आविशत् प्राप्तवान्॥ 1-56-20 हे बाल॥ षट्पञ्चाशत्तमोऽध्यायः॥ 56 ॥


Mahabharat- Hindi (Devanagari) 100000 shlokas

www.sanatanadharm.com - play store app (sanatana dharm)

"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India.